मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६२, ऋक् ५

संहिता

शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑ नमस्यत ।
अना॒म्योज॒ आ च॑के ॥

पदपाठः

शुचि॑म् । अ॒र्कैः । बृह॒स्पति॑म् । अ॒ध्व॒रेषु॑ । न॒म॒स्य॒त॒ ।
अना॑मि । ओजः॑ । आ । च॒के॒ ॥

सायणभाष्यम्

हे ऋत्विजो यूयमध्वरेषु शुचिं शुद्धं बृहस्पतिमर्कैरर्चनीयैः स्तोत्रैर्नमस्यत । परिचरत । अनाम्यनमनशीलं परैरनभिभवनीयमोजस्तस्य बलमाचके । सर्वतो याचे । बृहस्पतिम् । वनस्पत्यादित्वादुभयपदप्रकृतिस्वरः । चके । कमेर्लिट्युत्तमे मकारलोपश्छान्दसः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः