मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६२, ऋक् १५

संहिता

अ॒स्माक॒मायु॑र्व॒र्धय॑न्न॒भिमा॑ती॒ः सह॑मानः ।
सोमः॑ स॒धस्थ॒मास॑दत् ॥

पदपाठः

अ॒स्माक॑म् । आयुः॑ । व॒र्धय॑न् । अ॒भिऽमा॑तीः । सह॑मानः ।
सोमः॑ । स॒धऽस्थ॑म् । आ । अ॒स॒द॒त् ॥

सायणभाष्यम्

स सोमो देवोऽस्माकमायुरन्नं जीवनं वा वर्धयन्वृद्धिं प्रापयन्नभिमातीः कर्मविघ्नकारिनः शत्रून् सहमानोऽभिभवन्नस्माकं सधस्थं हविर्धानाख्यं स्थानमासदत् । आसीदतु । असदत् । सदेर्लेटि रूपम् । निघातः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११