मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १, ऋक् १३

संहिता

अ॒स्माक॒मत्र॑ पि॒तरो॑ मनु॒ष्या॑ अ॒भि प्र से॑दुरृ॒तमा॑शुषा॒णाः ।
अश्म॑व्रजाः सु॒दुघा॑ व॒व्रे अ॒न्तरुदु॒स्रा आ॑जन्नु॒षसो॑ हुवा॒नाः ॥

पदपाठः

अ॒स्माक॑म् । अत्र॑ । पि॒तरः॑ । म॒नु॒ष्याः॑ । अ॒भि । प्र । से॒दुः॒ । ऋ॒तम् । आ॒शु॒षा॒णाः ।
अश्म॑ऽव्रजाः । सु॒ऽदुघाः॑ । व॒व्रे । अ॒न्तः । उत् । उ॒स्राः । आ॒ज॒न् । उ॒षसः॑ । हु॒वा॒नाः ॥

सायणभाष्यम्

अत्र लोके पूर्वे मनुष्या अस्माकं पितरोऽङ्गिरस ऋतं यज्ञमाशुषाणा अश्नुवानाः सन्तोऽभिप्रसेदुः । अग्निमभिलक्ष्य प्रजग्मुः । तेऽङ्गिरसोऽग्निपरिचर्या बलादश्मव्रजाः पर्वतैः परिवृता वव्रे । वृणोत्याच्छादयतीति वव्रं पर्वतविलान्तर्वर्ति तमः । तस्मिनन्तर्मध्ये स्थिताः सुदुघाः सुष्ठु दोग्ध्री रुस्राः पणिभि रपहृता गा उदाजन् । तस्माद्विलान्निरगमयन् । किं कुर्वन्तः । तमसो विध्वंसनीरुषसो देवीः प्रकाशार्थं हुवाना आह्वयन्तः । वव्रे । वृणोतेरौणादिकः कः । कृञादीनां द्वे भवत इति द्विर्वचनं ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४