मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १, ऋक् १९

संहिता

अच्छा॑ वोचेय शुशुचा॒नम॒ग्निं होता॑रं वि॒श्वभ॑रसं॒ यजि॑ष्ठम् ।
शुच्यूधो॑ अतृण॒न्न गवा॒मन्धो॒ न पू॒तं परि॑षिक्तमं॒शोः ॥

पदपाठः

अच्छ॑ । वो॒चे॒य॒ । शु॒शु॒चा॒नम् । अ॒ग्निम् । होता॑रम् । वि॒श्वऽभ॑रसम् । यजि॑ष्ठम् ।
शुचि॑ । ऊधः॑ । अ॒तृ॒ण॒त् । न । गवा॑म् । अन्धः॑ । न । पू॒तम् । परि॑ऽसिक्तम् । अं॒शोः ॥

सायणभाष्यम्

हे अग्ने शुशुचानं भृशं दीप्यमानं होतारं देवानामाह्वातारं विश्वभरसमाहुतिद्वारा वृष्तिप्रदानेन विश्वस्य पोषकं यजिश्ठं यष्टृतममग्निं त्वामच्छाभिलक्ष्य वोचेय । स्तवानि । गवामूधः शुचि शुद्धं पयो नातृणत् । तवाहुत्यर्थं यजमानो न दोग्धिः । अंशोः सोमलताखण्डस्य सम्बन्ध्यन्धो रसाख्यमन्नं पूतं दशापवित्रेण शोधितं सत् न परिषिक्तम् । गृहेषु न प्रक्षिप्तम् । किन्त्वनेन यजमानेन केवलं स्तुतिरेव क्रियते । वोचेय । बूञ् आशीर्लिङि ब्रुवो वचिः । लिङ्याशिष्यङ् । छन्दस्युभयथेति सार्वधातुकत्वात्सीयुटः सलोपः । अतृणत् । उतृदिर् हिंसानादरयोः । दोहनमेवोधोहिंसनम् । परिषिक्तम् । सिञ्च्चतेः कर्मणि क्तः । उपस्र्गात्सुनोतीति संहितायां षत्वम् । गतिरनन्तर इति गतेः स्वरः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५