मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २, ऋक् ३

संहिता

अत्या॑ वृध॒स्नू रोहि॑ता घृ॒तस्नू॑ ऋ॒तस्य॑ मन्ये॒ मन॑सा॒ जवि॑ष्ठा ।
अ॒न्तरी॑यसे अरु॒षा यु॑जा॒नो यु॒ष्माँश्च॑ दे॒वान्विश॒ आ च॒ मर्ता॑न् ॥

पदपाठः

अत्या॑ । वृ॒ध॒स्नू इति॑ वृ॒ध॒ऽस्नू । रोहि॑ता । घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ । ऋ॒तस्य॑ । म॒न्ये॒ । मन॑सा । जवि॑ष्ठा ।
अ॒न्तः । ई॒य॒से॒ । अ॒रु॒षा । यु॒जा॒नः । यु॒ष्मान् । च॒ । दे॒वान् । विशः॑ । आ । च॒ । मर्ता॑न् ॥

सायणभाष्यम्

हे अग्ने ऋतस्य सत्यभूतस्य तव सम्बन्धिनौ मनसा मनसोऽपि जविष्ठा वेगवत्त्तमौ वृधस्नू । वर्धयतीति वृधमन्नम् । तत्क्षरन्तौ । घृतस्नू । घृतमुदकं तत्स्रवन्तौ रोहिता रोहितवर्णावत्प्याश्वौ मन्ये । स्त्ॐइ । अरुषारोचमानौ तावश्वौ युजानो रथे युञ्जानस्त्वं युष्मान् । देवेष्वग्नेरन्तर्भावाद्यजनीयरूपेण कीर्तनम् । युश्मान्यष्टव्यान्देवान् विशः परिचारकान्मर्तान्मनुष्यानन्तः । षष्ठ्यर्थे द्वितीया । तेषां मध्य अ समन्तादीयसे । हविः स्वीकर्तुं यजमानान् गच्छसि । तद्धविः प्रदतुं देवान् गच्छसि । मन्ये । मन्यरिरर्चतिकर्मा । मनसा । सुपां सुलुगिति पञ्चम्या आकारः । युजानः । युजिर् योगे । युजि बुधिदृशः किच्चेत्यानच् प्रत्ययः । चित्त्वादन्तोदात्तः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६