मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २, ऋक् ४

संहिता

अ॒र्य॒मणं॒ वरु॑णं मि॒त्रमे॑षा॒मिन्द्रा॒विष्णू॑ म॒रुतो॑ अ॒श्विनो॒त ।
स्वश्वो॑ अग्ने सु॒रथः॑ सु॒राधा॒ एदु॑ वह सुह॒विषे॒ जना॑य ॥

पदपाठः

अ॒र्य॒मण॑म् । वरु॑णम् । मि॒त्रम् । ए॒षा॒म् । इन्द्रा॒विष्णू॒ इति॑ । म॒रुतः॑ । अ॒श्विना॑ । उ॒त ।
सु॒ऽअश्वः॑ । अ॒ग्ने॒ । सु॒ऽरथः॑ । सु॒ऽराधाः॑ । आ । इत् । ऊं॒ इति॑ । व॒ह॒ । सु॒ऽह॒विषे॑ । जना॑य ॥

सायणभाष्यम्

हे अग्ने स्वश्वः शोभनाश्वोपेतः सुरथः शोभनरथः सुराधाः शोभनधनोपेतस्त्वमेषां मर्त्यानां मध्ये सुहविषे शोभनहविष्काय जनाय यजमानायार्यमादीनुतापि चाश्विनौ यष्टव्यान्देवाना वहेदु । आह्वयैव । उः पूरणः । इन्द्राविष्णू । ऋज्रेन्द्रेत्यादिना निपातनादिन्द्रशब्द आद्युदात्तः । देवताद्वन्द्वे चेत्युभयपदप्रकृति स्वरत्वम् । सुहविषे । नञ्सुभ्यामित्युत्ततपदान्तोदात्तत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६