मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २, ऋक् १४

संहिता

अधा॑ ह॒ यद्व॒यम॑ग्ने त्वा॒या प॒ड्भिर्हस्ते॑भिश्चकृ॒मा त॒नूभि॑ः ।
रथं॒ न क्रन्तो॒ अप॑सा भु॒रिजो॑रृ॒तं ये॑मुः सु॒ध्य॑ आशुषा॒णाः ॥

पदपाठः

अध॑ । ह॒ । यत् । व॒यम् । अ॒ग्ने॒ । त्वा॒ऽया । प॒ट्ऽभिः । हस्ते॑भिः । च॒कृ॒म । त॒नूभिः॑ ।
रथ॑म् । न । क्रन्तः॑ । अप॑सा । भु॒रिजोः॑ । ऋ॒तम् । ये॒मुः॒ । सु॒ऽध्यः॑ । आ॒शु॒षा॒णाः ॥

सायणभाष्यम्

हे अग्ने अध ह अथ खलु वयं त्वाया त्वत्कामनया षड्भिः पादैर्हस्तेभिर्हस्तैस्तनूभिरन्यैश्चावयवैश्च क्रुम यत् यस्मत्कारनात्कर्मसिद्ध्यर्थं त्वामुपपादयामस्तस्मास्तुध्यः सुकर्माण आशुषानाः कर्माणि व्याप्नुवन्तस्तेऽङ्गिरस ऋतं सत्यभूतं त्वां भुरिजोः । बिभृतः कर्मकरणसामर्थ्यं पदार्थान्वेति भुरिजौ चाहू । तयोरपसा मन्थनाख्येन कर्मणा येमुः । उद्यच्छन्ति । तत्र दृष्टान्तः । रथं न । यथा क्रन्तः कारवः शिल्पिनः क्रामन्तोऽध्वगा वा हस्तयोर्यथा रथमुद्यच्छन्ति तद्वत् । यद्वा । भुरिजोः । देवान्मनुष्यांश्च बिभृत इति भुरिजौ द्यावापृथिव्यौ । तयोर्मध्येऽपसा परिचरणकर्मणा सत्यभूतं तमग्निं येमुः । उद्यच्छन्ति । अध । सम्हितायां निपातस्य चेति दीर्घः । क्रन्तः । करोतेः शतरि बहुलं छन्दसीति विकरणस्य लुक् । प्रत्ययस्वरः । भुरिजोः । डुभृञ् धारन पोषनयोः । भृञ् उच्च । उ. २-७१ । इतीजिप्रत्ययः । धातोरुकारो रपरः । प्रत्ययस्वरः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८