मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २, ऋक् १६

संहिता

अधा॒ यथा॑ नः पि॒तर॒ः परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः ।
शुचीद॑य॒न्दीधि॑तिमुक्थ॒शास॒ः क्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन् ॥

पदपाठः

अध॑ । यथा॑ । नः॒ । पि॒तरः॑ । परा॑सः । प्र॒त्नासः॑ । अ॒ग्ने॒ । ऋ॒तम् । आ॒शु॒षा॒णाः ।
शुचि॑ । इत् । अ॒य॒न् । दीधि॑तिम् । उ॒क्थ॒ऽशसः॑ । क्षामा॑ । भि॒न्दन्तः॑ । अ॒रु॒णीः । अप॑ । व्र॒न् ॥

सायणभाष्यम्

हे अग्ने अधापि च परासः श्रेष्ठाः प्रत्नासः पुराणा ऋतं सत्यभुतं यज्ञं यथा यथावदाशुषाणा अश्नुवाना नोऽस्माकं पितरोङ्गिरसः शुचिदीप्तं स्थानमयन् । अगच्छन् । तथा दीधितिं तेजश्चागच्छन् । किञ्च उक्थशास उक्थानां शस्त्रानां शंसितारः क्षाम क्शयकारणं तमः पापं वा भिन्दतो विनाशयन्तोऽङ्गिरसोऽरुणीररुणवर्णाः पणिभिरपहृता गा उषसो वा अप व्रन् । अपावृण्वन् । प्रकाशितवन्त इत्यर्थः । अयन् । इण् गतौ । लङीणो यण्णिति यण् । व्यत्ययेनाडागमः । दीधितिम् । दीधिङ् दीप्तिदेवनयोरित्यस्मात् क्तिनि ह्रस्वश्छान्दसः । नित्त्वादाद्युदात्तः । उक्थशासः । उक्थशब्द उपपदे शन्सु स्तुतावित्यस्मान्मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्निति ण्विन् नकारलोपश्च निपातनादेव । पदकाले ह्रस्वश्छान्दसः । अरुणीः । गौरादिङीषन्तः । एकादेशस्वरः । व्रन् । वृणोतेर्लुङि मन्त्रे घसेत्यादिना च्लेर्लुक् । निघातः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९