मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २, ऋक् १९

संहिता

अक॑र्म ते॒ स्वप॑सो अभूम ऋ॒तम॑वस्रन्नु॒षसो॑ विभा॒तीः ।
अनू॑नम॒ग्निं पु॑रु॒धा सु॑श्च॒न्द्रं दे॒वस्य॒ मर्मृ॑जत॒श्चारु॒ चक्षु॑ः ॥

पदपाठः

अक॑र्म । ते॒ । सु॒ऽअप॑सः । अ॒भू॒म॒ । ऋ॒तम् । अ॒व॒स्र॒न् । उ॒षसः॑ । वि॒ऽभा॒तीः ।
अनू॑नम् । अ॒ग्निम् । पु॒रु॒धा । सु॒ऽच॒न्द्रम् । दे॒वस्य॑ । मर्मृ॑जतः । चारु॑ । चक्षुः॑ ॥

सायणभाष्यम्

हे अग्ने ते तव परिचरणमकर्म । कुर्मः । तेन कर्मणा स्वपसः शोभनकर्माणोऽभूम । विभातीर्व्युच्छन्त्य उषस ऋतं तेजोऽवस्रन् । आच्छादयन्ति । धारयन्तीत्यर्थः । तथा ता उषसोऽनूनं संपूर्णं पुरुधा बहुधा सुश्चन्द्रं सुष्ठ्वह्लादकारिणं यद्वा सुहिरण्यमग्निं धारयन्ति । किञ्च देवस्य द्योतमानस्य तव चारु मनोहरं चक्षुस्तेजो मर्मृजतः परिचरन्तो वयं स्वपसोऽभूमेति पुर्वेणान्वयः । अकर्म । करोतेर्लङि बहुलं छन्दसीति विकरनस्य लुक् । मर्मृजतः । म्रुजूश् शुद्धौ । यङ् लुकि रुग्रिकौ च लुकीत्यभ्यासस्य रुगागमः । शतरि नाभ्यस्ताच्छतुरिति नुमभावः । अभ्यस्तस्वरः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९