मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३, ऋक् १२

संहिता

ऋ॒तेन॑ दे॒वीर॒मृता॒ अमृ॑क्ता॒ अर्णो॑भि॒रापो॒ मधु॑मद्भिरग्ने ।
वा॒जी न सर्गे॑षु प्रस्तुभा॒नः प्र सद॒मित्स्रवि॑तवे दधन्युः ॥

पदपाठः

ऋ॒तेन॑ । दे॒वीः । अ॒मृताः॑ । अमृ॑क्ताः । अर्णः॑ऽभिः । आपः॑ । मधु॑मत्ऽभिः । अ॒ग्ने॒ ।
वा॒जी । न । सर्गे॑षु । प्र॒ऽस्तु॒भा॒नः । प्र । सद॑म् । इत् । स्रवि॑तवे । द॒ध॒न्युः॒ ॥

सायणभाष्यम्

हे अग्ने अमृता अमरणहेतव अमृक्ता रक्षः प्रभृतिभिरबाधिता मधुमद्भिर्माधुर्योपेतैरर्णोभिरुदकैर्युक्ता देवीर्देव्यो नद्य ऋतेन सत्येन यज्ञेन वा हेतुनाप आप्तव्याः सत्यः सदमित्सदैव स्रवितवे स्रवणाय प्र दधन्युः । प्रगच्छन्ति । तत्र दृष्टान्तः । वाजी न । यथा सर्गेषु प्रेरणेषु प्रस्तुभानः प्रोत्साह्यमानोऽश्वः प्रगच्छति तद्वत् । आपः । आप्लृ व्याप्तौ । आप्नोतेः क्विप् ह्रस्वश्चेति कर्मणि क्विप् । अप्तृन्नित्यादिना जसि दीर्घः । प्रस्तुभानः । स्तोभतिरर्चतिकर्मा ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२