मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४, ऋक् ४

संहिता

उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य१॒॑मित्राँ॑ ओषतात्तिग्महेते ।
यो नो॒ अरा॑तिं समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क॑म् ॥

पदपाठः

उत् । अ॒ग्ने॒ । ति॒ष्ठ॒ । प्रति॑ । आ । त॒नु॒ष्व॒ । नि । अ॒मित्रा॑न् । ओ॒ष॒ता॒त् । ति॒ग्म॒ऽहे॒ते॒ ।
यः । नः॒ । अरा॑तिम् । स॒म्ऽइ॒धा॒न॒ । च॒क्रे । नी॒चा । तम् । ध॒क्षि॒ । अ॒त॒सम् । न । शुष्क॑म् ॥

सायणभाष्यम्

तिग्महेते । तिग्मास्तीक्श्ना हे तयो ज्व्ला यस्य स तथोक्तः । तादृश हे अग्ने उत्तिष्थ । रक्षोहननार्थमुद्यतो भव । शत्रून्प्रत्या तनुश्व । ज्वालासङ्घं विस्तारय । रैस्तेजः सङ्घैरमित्रान् शत्रून्न्योषतात् । नितरां दह । हे समिधान समिद्भिर्दीप्यमानाग्नेः यः पुमान् सोऽस्माकमरातिम् । भावप्रधाननिर्देशः । अरातित्वम् । सात्रवं चक्रे । कुरुते । अरातिमदानं वा कुरुते । तं पुमांस्सं नीचा न्यग्भूतं धक्शि । दह । तत्र दृष्टान्तः । अतसं न । यथा शुष्कमनार्द्रमतसं काष्थं दहसि तद्वत् । ऒषतात् । उष दाहे । लोटि हेस्तुह्योरिति तातङादेशः । धक्शि । दहेर्लोटि बहुलं छन्दसीति शपो लुक् । हो ढ इति धत्वम् । भष्भावः । षढोः कः सीति कत्वम् । निघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३