मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४, ऋक् ८

संहिता

अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाक्सं ते॑ वा॒वाता॑ जरतामि॒यं गीः ।
स्वश्वा॑स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥

पदपाठः

अर्चा॑मि । ते॒ । सु॒ऽम॒तिम् । घोषि॑ । अ॒र्वाक् । सम् । ते॒ । व॒वाता॑ । ज॒र॒ता॒म् । इ॒यम् । गीः ।
सु॒ऽअश्वाः॑ । त्वा॒ । सु॒ऽरथाः॑ । म॒र्ज॒ये॒म॒ । अ॒स्मे इति॑ । क्ष॒त्राणि॑ । धा॒र॒येः॒ । अनु॑ । द्यून् ॥

सायणभाष्यम्

उखासंभरणीयेष्टावग्नेः क्शत्रभृतोऽर्चामि त इति याज्या । सुत्रितं च । अर्चामि ते सुमतिं घोष्यर्वागितीदं प्रभृतिकर्मणाम् । आ. ४-१- । इति ॥

हे अग्ने ते तव सुमतिमनुग्रहकरां शोभनां बुद्धिमर्चामि । पूजयामि । ववाता पुनः पुनस्त्वामभिगच्छन्तीयमुच्यमाना गीर्वाग्घोशि घोशयुक्तं यथा भवति तथार्वाक् त्वदभिमुखं ते त्वां सं जरताम् । स्तौतु । यवमपि स्वश्वाः शोभनाश्वोपेताः सुरथाश्च । उपलक्षणमेतत् । पुत्रपौत्रादिभिः सहिताः सन्तस्त्वां मर्जयेम । अलंकुर्याम । परिचरेमेति यावत् । त्वं तु अनुद्यूनन्वहमस्मे अस्मासु क्षत्राणि धनानि धारयेः । निधेहि । घोषि । घुश शब्दने । औणादिक इन् । नित्त्वादाद्युदात्तः । वावाता । वा गतिगन्धनयोरित्यस्य यङ् लुगन्तस्य निष्ठायां रूपम् । मर्जयेम । मृजू शौचालङ्कारयोः । ण्यन्तस्य लिङि रूपम् । वृद्ध्यभावश्छान्दसः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४