मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४, ऋक् १२

संहिता

अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः ।
ते पा॒यवः॑ स॒ध्र्य॑ञ्चो नि॒षद्याग्ने॒ तव॑ नः पान्त्वमूर ॥

पदपाठः

अस्व॑प्नऽजः । त॒रण॑यः । सु॒ऽशेवाः॑ । अत॑न्द्रासः । अ॒वृ॒काः । अश्र॑मिष्ठाः ।
ते । पा॒यवः॑ । स॒ध्र्य॑ञ्चः । नि॒ऽसद्य॑ । अ॒ग्ने॒ । तव॑ । नः॒ । पा॒न्तु॒ । अ॒मू॒र॒ ॥

सायणभाष्यम्

अमूर अमूढ सर्वज्ञ । यद्वा । अमूर अप्रतिहतगते हे अग्ने अस्वप्नजोऽस्वपन्तः । जागरूका इति यावत् । तरणयः सततगमनस्वभावा आपद्भ्यस्तारका वा सुशेवाः सुसुखा अतन्द्रासोऽतन्द्रा अनलसाः सर्वदोद्युक्ता अवृका अहिंसका अश्रमिष्ठा अश्रान्ततमाः सध्र्यञ्चः परस्परं सङ्गताः पायवो रक्षकास्ते तादृशास्तव रश्मयो निशद्यास्मद्यज्ञे निशण्णा भूत्वा नोऽस्मान्पान्तु । रक्षन्तु । अस्वप्नजः । स्वपितृषोर्नजिङ् प्रत्ययः । मध्येऽवग्रहश्छान्दसः । सध्र्यञ्चः । सहपूर्वादञ्चतेः क्विप् । सहस्य सध्रिरिति सहस्य सध्र्यादेशः । सध्र्यादेशस्यान्तोदात्तत्वनिपातनाद्यणादेश उदात्तस्वरितयोरिति स्वरितत्वम् । अमूर । मुह वैचित्ये । निष्ठायां ढकारस्य रेफश्छान्दसः । यद्वा । मूङ् बन्धने । औणादिको रक् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५