मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४, ऋक् १३

संहिता

ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् ।
र॒रक्ष॒ तान्त्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्स॑न्त॒ इद्रि॒पवो॒ नाह॑ देभुः ॥

पदपाठः

ये । पा॒यवः॑ । मा॒म॒ते॒यम् । ते॒ । अ॒ग्ने॒ । पश्य॑न्तः । अ॒न्धम् । दुः॒ऽइ॒तात् । अर॑क्षन् ।
र॒रक्ष॑ । तान् । सु॒ऽकृतः॑ । वि॒श्वऽवे॑दाः । दिप्स॑न्तः । इत् । रि॒पवः॑ । न । अह॑ । दे॒भुः॒ ॥

सायणभाष्यम्

अत्रेयमैतिहासिकी कथा । उचथ्यस्य गर्भिणीं ममतानामधेयां भार्यां तदनुजो बृहस्पतिरचकमत । तस्या रेत अधित्सुं तं बृहस्पतिं गर्भस्थं रेतोऽब्रवित् । रेतोऽत्र मा सैक्षीरहमत्र वसामीति । एवमुक्तो बृहस्पतिर्निरुद्धरेतस्कः सन् रेतोरूपं गर्भं शशाप । जात्यन्धत्वरूपं दीर्घं तमः प्राप्नुहीति । तत्तस्तस्यां दीर्घतमा अजनिष्ठ । स चान्ध्यपरिहारायाग्निं स्तुत्वा चक्षुरलभतेति । तदिदानीमाह । हे अग्ने पायवो रक्शकाः पश्यन्तोऽन्धोऽयमिति कृपादृष्त्या पश्यन्तस्ते तव ये रश्मयो मामतेयं ममतायाः पुत्रमन्धं चक्शर्हीनं दीर्घतमसं दुरितादान्ध्यलक्षणाच्छापादरक्षन् चक्षुष्प्रदानेनापालयन् । विश्वदेवा विश्वप्रज्ञो भवान् सुकृतः शोभनं चक्षुष्प्रदानादिकर्म कृतवतस्तान्रश्मीन्रक्ष । आदरेण परिगृह्य पालयति । तेशां परिग्रहसिद्धिरभिधीयते । दिप्सन्त इत् दम्भितुं परिभवितुमिच्छन्त एव रिपवः शत्रव एनं दीर्घतमसं नाह देभुः ॥ नैव परिभवन्ति खलु ॥ मामतेयम् । ममशाया अपत्यमित्यर्थे स्त्रीभ्यो ढक् । दिप्सन्तः । दन्भु दम्भे । सनीवन्तर्धेत्यादिना इडभावः । दम्भ इच्चेतिकारः । देभुः । श्रन्थिग्रन्थिदन्भिष्वञ्जी नामपसंख्यानमिति लिटः कित्त्वादपधालोपः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५