मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४, ऋक् १५

संहिता

अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोमं॑ श॒स्यमा॑नं गृभाय ।
दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य१॒॑स्मान्द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ॥

पदपाठः

अ॒या । ते॒ । अ॒ग्ने॒ । स॒म्ऽइधा॑ । वि॒धे॒म॒ । प्रति॑ । स्तोम॑म् । श॒स्यमा॑नम् । गृ॒भा॒य॒ ।
दह॑ । अ॒शसः॑ । र॒क्षसः॑ । पा॒हि । अ॒स्मान् । द्रु॒हः । नि॒दः । मि॒त्र॒ऽम॒हः॒ । अ॒व॒द्यात् ॥

सायणभाष्यम्

हे अग्ने अयानया समिधा दीप्या स्तुत्या ते त्वां विधेम । परिचरेम । अस्माभिः शस्यमानमिमं स्तोमं स्तोत्रं प्रति गृभाय । प्रतिगृहान । अशसः । शंसन्ति स्तुवन्तीति शसः स्तोतारः । ते न भवन्तीत्यशसो नृशंसाः । तान्रक्शसो दह । भस्मसात्कुरु । हे मित्रमहो मित्रैः पूजनीय हे अग्ने द्रुहो द्रोग्धुर्निदो निन्दकादवद्यात्परिवादाच्चास्मान् पाहि । रक्ष । गृभाय । ग्रहेर्लोटि छन्दसि शायजपीति श्नः शायच् । हृग्रहोर्भः । पाहि । वाक्यभेदादनिघातः । निदः । णिदि कुत्सायाम् । क्विप् । आगमशसनस्यानित्यत्वान्नुमभावः । सावेकाच इति विभक्तेरुदात्तत्वम् । अवद्यात् । अवद्यपण्येति यत् । ययतोश्चातदर्थे । पा. ६-२-१५६ । इत्यन्तोदात्तत्वम् । मित्रमहो अवद्यादित्यत्र संहितायामव्यादवद्यादित्येङः प्रकृतिभावः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५