मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५, ऋक् १

संहिता

वै॒श्वा॒न॒राय॑ मी॒ळ्हुषे॑ स॒जोषा॑ः क॒था दा॑शेमा॒ग्नये॑ बृ॒हद्भाः ।
अनू॑नेन बृह॒ता व॒क्षथे॒नोप॑ स्तभायदुप॒मिन्न रोधः॑ ॥

पदपाठः

वै॒श्वा॒न॒राय॑ । मी॒ळ्हुषे॑ । स॒ऽजोषाः॑ । क॒था । दा॒शे॒म॒ । अ॒ग्नये॑ । बृ॒हत् । भाः ।
अनू॑नेन । बृ॒ह॒ता । व॒क्षथे॑न । उप॑ । स्त॒भा॒य॒त् । उ॒प॒ऽमित् । न । रोधः॑ ॥

सायणभाष्यम्

चतुर्थे मण्दले प्रथमेऽनुवाके दह्स सूक्तानि । वैश्वानरायेति पञ्चदशर्चं पञ्चमं सूक्तं वामदेवस्यार्षं त्रैष्टुभं ऐश्वानराग्निं देवताकम् । अत्रानुक्रमणिका । वैश्वानराय वैश्वानरीयमिति । विनियोगो लैङ्गिकः ॥

सजोषाः सजोषसः समानप्रीतियुक्ता वयमृत्विग्यजमाना वैश्वानराय विश्वानरसंबन्धिन एतन्नामकाय मीळ्हुषेऽभिमतवृष्ट्यादिसेक्त्रे बृहद्बृहशे महते भा भासमानायाग्नये देवाय कथा कथं केन प्रकारेण दाशेम दद्याम । सामर्थ्याद्धविरिति गम्यते । अथवा बृहद्भा इत्युत्तरत्र योज्यम् । कथा दाशेमेत्युक्तम् । किं तत्राधिक्यमिति तदुच्यते । योऽग्निर्बृहन्माहान्भा भासमानाश्च सन् अनूनेनाविकलेन संपूर्णेन अग्त एव बृहता प्रभूतेन वक्षथेन वोढव्येन स्वशरिरेणोपस्तभायत् । उपस्तभ्नाति । सामर्थ्याद्द्यामिति शेशः । द्युलोकं प्राप्नोतीत्यर्थः । तत्र दृष्टान्तः । उपमिन्न रोधः । उप समीपे मीयते क्षिप्यते इत्युपमित् स्थूणा । सा यथा तृणाच्छादनादिनिरोधकं वंशादिकमुपस्तभ्नाति तद्वत् । यद्वा । तक्षथेनोक्थलक्षनेन फलादिवाहकेन स्तोत्रेण सह द्युलोकमुपस्तभायत् । स्तभायत् । स्तन्भुः सौत्रो धातुः । लङि छन्दसि शायजपीति व्यत्ययेनाहावपि शायजादेशः । बहुलं छन्दसीत्यडागमाभावः । किमिव । उपमिन्न रोधः । उप समीपे मीयत इत्युपमिदुदकम् । कूलमिव ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः