मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५, ऋक् ५

संहिता

अ॒भ्रा॒तरो॒ न योष॑णो॒ व्यन्त॑ः पति॒रिपो॒ न जन॑यो दु॒रेवा॑ः ।
पा॒पास॒ः सन्तो॑ अनृ॒ता अ॑स॒त्या इ॒दं प॒दम॑जनता गभी॒रम् ॥

पदपाठः

अ॒भ्रा॒तरः॑ । न । योष॑णः । व्यन्तः॑ । प॒ति॒ऽरिपः॑ । न । जन॑यः । दुः॒ऽएवाः॑ ।
पा॒पासः॑ । सन्तः॑ । अ॒नृ॒ताः । अ॒स॒त्याः । इ॒दम् । प॒दम् । अ॒ज॒न॒त॒ । ग॒भी॒रम् ॥

सायणभाष्यम्

अभ्रातरो भ्रात्रादिबन्धुरहिता योषणो न गतभर्तृका योशित इव । वाषपूर्वस्य निगम इति विकल्पनाद्दीर्घाभावः । ता यथा भर्तृगृहात्पितृगृहं प्रत्यायन्ति तद्वद्व्यन्तो गच्छन्तः । यज्ञादीनपहायामार्ते वर्तमाना इत्यर्थः । तथा पतिरिपो न जनयः पतिद्वेषिण्यः स्त्रिय इव दुरेवा दुष्टगतयो दुराचारा अत एव पापासः पापाः सन्तोऽनृता मानससत्यरहिता असत्या वाचिकसत्यरहिता मनसा वाचाग्निमभजमाना इदं पापिभिरनुभूयमानतया प्रसिद्धं गभीरमगाधं पदं नरकस्थानमजनत । अजनयन्त । उत्पादयन्ति । लङि जनेरन्तर्भावितण्यर्थाद्व्यत्ययेनैकवचनं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः