मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५, ऋक् १०

संहिता

अध॑ द्युता॒नः पि॒त्रोः सचा॒साम॑नुत॒ गुह्यं॒ चारु॒ पृश्ने॑ः ।
मा॒तुष्प॒दे प॑र॒मे अन्ति॒ षद्गोर्वृष्ण॑ः शो॒चिष॒ः प्रय॑तस्य जि॒ह्वा ॥

पदपाठः

अध॑ । द्यु॒ता॒नः । पि॒त्रोः । सचा॑ । आ॒सा । अम॑नुत । गुह्य॑म् । चारु॑ । पृश्नेः॑ ।
मा॒तुः । प॒दे । प॒र॒मे । अन्ति॑ । सत् । गोः । वृष्णः॑ । शो॒चिषः॑ । प्रऽय॑तस्य । जि॒ह्वा ॥

सायणभाष्यम्

अध अथ द्युतानो दीप्यमानः पित्रोर्द्यावापृथिव्योः सचा सह मध्ये व्याप्तः सन् पृश्नेर्गोः सम्बन्धि चारु रमणीयं गुह्यमूधसि निगूढं पय असास्वकीयेनास्येनामनुत । पानायाबुध्यत । उक्तमेवार्थं विवृणोति । मातुः क्षीरादिनिर्मात्र्या गोः परमे पद उत्खृष्टे स्थान ऊधोलक्षणेऽन्ति सत् समीपे विद्यमानं क्षीरं वृष्णः फलानां वर्षितुः शोचिषो दीप्तस्य प्रयतस्याहवनीयादिरूपेण नियतस्य वैश्वानरस्य जिह्वा पातुमिच्छतीति शेषः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः