मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५, ऋक् १४

संहिता

अ॒नि॒रेण॒ वच॑सा फ॒ल्ग्वे॑न प्र॒तीत्ये॑न कृ॒धुना॑तृ॒पासः॑ ।
अधा॒ ते अ॑ग्ने॒ किमि॒हा व॑दन्त्यनायु॒धास॒ आस॑ता सचन्ताम् ॥

पदपाठः

अ॒नि॒रेण॑ । वच॑सा । फ॒ल्ग्वे॑न । प्र॒तीत्ये॑न । कृ॒धुना॑ । अ॒तृ॒पासः॑ ।
अध॑ । ते । अ॒ग्ने॒ । किम् । इ॒ह । व॒द॒न्ति॒ । अ॒ना॒यु॒धासः॑ । अस॑ता । स॒च॒न्ता॒म् ॥

सायणभाष्यम्

अनिरेण । इरान्नम् । तद्रहितेन फल्ग्वेनोक्थेन प्रतीत्येन प्रतिगन्तव्येन । आरोह्येणेत्यर्थः । कृधुना ह्रस्वेन । कृध्विति ह्रस्वनाम कृधोको वम्रक इति तन्नामसूक्तत्वात् । एवं विधेन वचसातृपासोऽतृप्ता जनाः । अध अधुनेहास्मिन् लोके हे अग्ने ते त्वां किं वदन्ति । निर्हविष्केण वचसा न किञ्चिल्लभ्यत इत्यर्थः । किन्त्वनायुधासः । आयुधशब्दः साधनं लक्षयति । हविरादिसाधनरहितास्तेऽसता जुःखेन सचन्ताम् । सङ्गच्छन्तां ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः