मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५, ऋक् १५

संहिता

अ॒स्य श्रि॒ये स॑मिधा॒नस्य॒ वृष्णो॒ वसो॒रनी॑कं॒ दम॒ आ रु॑रोच ।
रुश॒द्वसा॑नः सु॒दृशी॑करूपः क्षि॒तिर्न रा॒या पु॑रु॒वारो॑ अद्यौत् ॥

पदपाठः

अ॒स्य । श्रि॒ये । स॒म्ऽइ॒धा॒नस्य॑ । वृष्णः॑ । वसोः॑ । अनी॑कम् । दमे॑ । आ । रु॒रो॒च॒ ।
रुश॑त् । वसा॑नः । सु॒दृशी॑कऽरूपः । क्षि॒तिः । न । रा॒या । पु॒रु॒ऽवारः॑ । अ॒द्यौ॒त् ॥

सायणभाष्यम्

समिधानस्य समिध्यमानस्य । कर्मणि कर्तृप्रत्ययः । वृष्णो वर्षितुः फलस्य वसोर्वासयितुरस्यग्नेरनीकं तेजः सङ्घो दमे यागगृह आ रुरोच । सर्वतो दीप्यते । किमर्थम् । शिये श्रेयसे यजमानानाम् । सोऽग्नी रुशत् । वर्नानामैतत् । दीप्तं तेजो वसान आच्छादयन् अत एव सुदृशीकरूपः सुष्ठु दर्शनीयरूपं पुरुवारो बहुभिरृत्विग्भिर्यजमानैर्वरणीयः सन्नद्यौत् । द्योतते । किमिव । रायाश्वादिधनेन क्षितिर्न राजादिरिव । क्षितिरिति मनुश्यनाम ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः