मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ६, ऋक् २

संहिता

अमू॑रो॒ होता॒ न्य॑सादि वि॒क्ष्व१॒॑ग्निर्म॒न्द्रो वि॒दथे॑षु॒ प्रचे॑ताः ।
ऊ॒र्ध्वं भा॒नुं स॑वि॒तेवा॑श्रे॒न्मेते॑व धू॒मं स्त॑भाय॒दुप॒ द्याम् ॥

पदपाठः

अमू॑रः । होता॑ । नि । अ॒सा॒दि॒ । वि॒क्षु । अ॒ग्निः । म॒न्द्रः । वि॒दथे॑षु । प्रऽचे॑ताः ।
ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ताऽइ॑व । अ॒श्रे॒त् । मेता॑ऽइव । धू॒मम् । स्त॒भा॒य॒त् । उप॑ । द्याम् ॥

सायणभाष्यम्

अमूरोऽमूढः । प्रगल्भ इत्यर्थः । होता होमनिष्पादको मन्द्रो मदनीयो मादयिता वा प्रचेताः प्रकृष्टज्ञानोऽग्निर्देवो विक्वृत्विग्रूपासु प्रजासु मध्ये विदथेषु यागेषु निमित्तभूतेषु न्यसादि । नितरां स्थापितः । अथ तथाभूतोऽग्निर्भानुं दीप्तिं सवितेवोदितः सूर्य इवोर्द्य्ह्वमश्रेत् । ऊर्ध्वमुखमाश्रयति । किञ्च मेतेव स्थूणेव । सा यथा स्वाधिष्ठितं विंशादिकं स्तभ्नाति तद्वदयमग्निर्धूमं स्वोत्थितं द्यामुप द्युलोकस्योपरि स्तभायत् । स्तभ्नाति । ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः