मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ६, ऋक् ९

संहिता

तव॒ त्ये अ॑ग्ने ह॒रितो॑ घृत॒स्ना रोहि॑तास ऋ॒ज्वञ्च॒ः स्वञ्च॑ः ।
अ॒रु॒षासो॒ वृष॑ण ऋजुमु॒ष्का आ दे॒वता॑तिमह्वन्त द॒स्माः ॥

पदपाठः

तव॑ । त्ये । अ॒ग्ने॒ । ह॒रितः॑ । घृ॒त॒ऽस्नाः । रोहि॑तासः । ऋ॒जु॒ऽअञ्चः॑ । सु॒ऽअञ्चः॑ ।
अ॒रु॒षासः॑ । वृष॑णः । ऋ॒जु॒ऽमु॒ष्काः । आ । दे॒वऽता॑तिम् । अ॒ह्व॒न्त॒ । द॒स्माः ॥

सायणभाष्यम्

हे अगेन् त्ये ते प्रसिद्धास्तव हरितस्त्वत्सम्बन्धिनोऽश्वा देवतातिमस्मदीयं यागं प्रत्याह्वन्त । ऋत्विग्भिराहूयन्ते । लुङि लिपोसिचिह्वश्चेत्यङादेशः । कीदृशाः । घृतस्ना घृतस्नुवो बलातिशयान्नासापुटादिस्थानेभ्य उदकं क्शरन्तो रोहितासो रोहिता लोहितवर्णा ऋज्वञ्चः । ऋज्वकुटिलमञ्चन्ति गाच्छन्तीत्यृज्वञ्चः । स्वञ्च सुष्ठु गच्छन्तः । अरुषास आरोचमाना वृषणो युवानो वर्षितारो वा । वाषपूर्वस्य निगम इति विकल्पेन दीर्घविधानादत्र दीर्घाभावः । ऋजुमुष्काः साधनमुष्का दस्मा दर्शनीयाः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः