मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ७, ऋक् १

संहिता

अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्य॑ः ।
यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॑ वि॒शेवि॑शे ॥

पदपाठः

अ॒यम् । इ॒ह । प्र॒थ॒मः । धा॒यि॒ । धा॒तृऽभिः॑ । होता॑ । यजि॑ष्ठः । अ॒ध्व॒रेषु॑ । ईड्यः॑ ।
यम् । अप्न॑वानः । भृग॑वः । वि॒ऽरु॒रु॒चुः । वने॑षु । चि॒त्रम् । वि॒ऽभ्व॑म् । वि॒शेऽवि॑शे ॥

सायणभाष्यम्

अयमिहेत्येकादशर्चं सप्तमं सूक्तं वामदेवस्यार्षमाग्नेयम् । आद्या जगती द्वितीयाद्याः पञ्चानुष्ठुभः शिष्टास्त्रिष्टुभम् । तथा चानुक्रान्तम् । अयमिहादौ जगती पञ्चानुष्तुभ इति । सूक्तविनियोगो लैङ्गिकः । अग्निप्रणयनेऽयमिहेति वैश्यस्य प्रतिपत् । तथा च सूत्रितम् । अयमिह प्रथमो धायि धातृभिरिति तु राजन्यवैश्ययोराद्ये । आ. २-१७ । इति ॥

धातृभिर्यज्ञार्थं कर्म कुर्वद्भिरध्वर्युभिरिहास्मिन्यज्ञे होता देवानामाह्वाता यजिष्ठोऽतिशयेन यष्टाध्वरेषु यागेष्वीड्य ऋत्विग्भिः स्तूयमानः प्रथमः सर्वेषां देवानां मुख्योऽयमाहवनीयादिस्थानेषु प्रत्यक्षेणोपलभ्यमानोऽग्निर्धायि । अधायि । निहितः । दधातेः कर्मणि लुङ् । बहुलं छन्दस्यमाङ्योग इत्यडभावः । तिङ्ङतिङ इति निघातः । अयमग्निरित्युक्तम् । कोऽसावग्निरित्यत आह । अप्नवानो भृगुसम्बन्धी कश्चिदृषिः स चान्ये भृगवश्च वनेष्वरण्येषु चित्रं दावाग्निरूपेण बहुधा दर्शनीयं विशे विशे । वीप्सया सर्वजनव्याप्तिर्गृह्यते । सर्वस्या विशव्ः प्रजाया विभ्वं विभुमीश्वरं यं देवानां हविर्वाहकत्वेन प्रसिद्धमग्निं विरुरुचुः । दीप्तियुक्तं कुर्वन्ति स्म । यमिति यच्छब्दस्यायमिती दंशब्देन सम्बन्धः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः