मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ७, ऋक् २

संहिता

अग्ने॑ क॒दा त॑ आनु॒षग्भुव॑द्दे॒वस्य॒ चेत॑नम् ।
अधा॒ हि त्वा॑ जगृभ्रि॒रे मर्ता॑सो वि॒क्ष्वीड्य॑म् ॥

पदपाठः

अग्ने॑ । क॒दा । ते॒ । आ॒नु॒षक् । भुव॑त् । दे॒वस्य॑ । चेत॑नम् ।
अध॑ । हि । त्वा॒ । ज॒गृ॒भ्रि॒रे । मर्ता॑सः । वि॒क्षु । ईड्य॑म् ॥

सायणभाष्यम्

अग्ने कदा त इति । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतावानुष्टुभे छन्दस्यग्ने कदा त इत्याद्याः पञ्चर्चः । सूत्रितं च । अग्ने कदा त इति पञ्च । आ. ४-१३ । इति

हे अग्ने अधातः कारणाद्देवस्य द्योतमानस्य ते तव सम्बन्धि चेतनं तेजः कदानुषक् अनुषक्तं भुवत् । भवेत् । लेट्यडागमः । बहुलं छन्दसीति विकरणस्य लुक् । भूसुवोस्तिङीति गुणप्रतिषेधः । अतः कारणादित्युक्तम् । कस्माद्धेतोरित्युच्यते । हि यस्मात्कारणान्मर्तासो मनुष्या विक्षु विड्भिः प्रजाभिरीड्यं स्तुत्यं त्वा त्वां जगृभ्रिरे । गगृहिरे । गृह्णन्ति । ग्रहेर्धातोर्लिटि हृग्रहोर्भ इति भत्वम् । बहुलं छन्दसीति रुडागमः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः