मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ८, ऋक् ७

संहिता

अ॒स्मे रायो॑ दि॒वेदि॑वे॒ सं च॑रन्तु पुरु॒स्पृहः॑ ।
अ॒स्मे वाजा॑स ईरताम् ॥

पदपाठः

अ॒स्मे इति॑ । रायः॑ । दि॒वेऽदि॑वे । सम् । च॒र॒न्तु॒ । पु॒रु॒ऽस्पृहः॑ ।
अ॒स्मे इति॑ । वाजा॑सः । ई॒र॒ता॒म् ॥

सायणभाष्यम्

पुरुस्पृह ऋत्विगादिभिरभिलष्यमाणा रायः पश्वादिधनान्यस्मे अस्मासु यजमानेषु दिवे दिवे प्रतिदिनं सं चरन्तु । प्रचरन्त्यो भवन्तु । दिव्यब्दादुत्तरस्याः सप्तम्याः सुपां सुलुगित्यादिना शे आदेश ऊडिदमित्यादिना च तस्योदात्तत्वम् । नित्यवीप्सयोरिति द्विर्भावे सत्युत्तरभागस्यानुदात्तं चेत्यनुदात्तत्वम् । वाजासोऽन्नानिचास्मे अस्मानीरताम् । यज्ञार्थं प्रेरयन्तु ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः