मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ९, ऋक् १

संहिता

अग्ने॑ मृ॒ळ म॒हाँ अ॑सि॒ य ई॒मा दे॑व॒युं जन॑म् ।
इ॒येथ॑ ब॒र्हिरा॒सद॑म् ॥

पदपाठः

अग्ने॑ । मृ॒ळ । म॒हान् । अ॒सि॒ । यः । ई॒म् । आ । दे॒व॒ऽयुम् । जन॑म् ।
इ॒येथ॑ । ब॒र्हिः । आ॒ऽसद॑म् ॥

सायणभाष्यम्

अग्ने मृळेत्यष्टर्चं नवमं सूक्तं वामदेवस्यार्षं गायत्रीछन्दस्कमग्निदेवताकम् । अनुक्रान्तं च । अग्ने मृळेति । द्वितीये छन्दोम इदं सूक्तं जातवेदस्यनिविद्धानीयम् । सूत्रितं च । क्रीळं वः शर्धोऽग्ने मृळेत्याग्निमारुतम् । आ. ८-१० । इति ॥

हे अग्ग्ने मृळ । अस्मान् सुखय । सत्वं महानसि । प्रभुतो भवसि । यस्त्वमीमिमं देवयुं देवानां कामयितारं जनं यजमानं बर्हिर्दर्भमासदं यज्ञ आसत्तुमा इयेथ । आगच्छसि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः