मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ९, ऋक् ७

संहिता

अ॒स्माकं॑ जोष्यध्व॒रम॒स्माकं॑ य॒ज्ञम॑ङ्गिरः ।
अ॒स्माकं॑ शृणुधी॒ हव॑म् ॥

पदपाठः

अ॒स्माक॑म् । जो॒षि॒ । अ॒ध्व॒रम् । अ॒स्माक॑म् । य॒ज्ञम् । अ॒ङ्गि॒रः॒ ।
अ॒स्माक॑म् । शृ॒णु॒धि॒ । हव॑म् ॥

सायणभाष्यम्

हे अङ्गिरोऽग्ने त्वमस्माकमध्वरमस्मदीयं यागं जोषि । जुषस्व । सेवस्व । अस्माकमस्मदीयं यज्ञं यजनसाधनं हविश्च जुषस्व । अस्माकमस्मदीयं हवमाह्वानरूपं स्तोत्रं च शृणुधि । शृणु । शृणोतेर्लोण्मध्यमैकवचने सिप् । तस्य हिरादेशे श्रुवः शृचेति धातोः श्नुप्रत्ययः शृभावश्च । श्रुशृणोपॄकृवृभ्यश्छन्दसीति हेर्धिरादेशः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः