मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १२, ऋक् ४

संहिता

यच्चि॒द्धि ते॑ पुरुष॒त्रा य॑वि॒ष्ठाचि॑त्तिभिश्चकृ॒मा कच्चि॒दागः॑ ।
कृ॒धी ष्व१॒॑स्माँ अदि॑ते॒रना॑गा॒न्व्येनां॑सि शिश्रथो॒ विष्व॑गग्ने ॥

पदपाठः

यत् । चि॒त् । हि । ते॒ । पु॒रु॒ष॒ऽत्रा । य॒वि॒ष्ठ॒ । अचि॑त्तिऽभिः । च॒कृ॒म । कत् । चि॒त् । आगः॑ ।
कृ॒धि । सु । अ॒स्मान् । अदि॑तेः । अना॑गान् । वि । एनां॑सि । शि॒श्र॒थः॒ । विष्व॑क् । अ॒ग्ने॒ ॥

सायणभाष्यम्

हे यविष्ठ युवतमाग्ने यच्चिद्धि यद्यपि खलु ते त्वदीयेषु पुरुषत्रा परिचारकेषु पुरुषेष्वचित्तिभिरज्ञानैः कच्चिदागः किञ्चिदपि पापं वयं चकृम तथाप् हे अग्ने अस्मानदितेर्भूमेरनागाननागसः पापरहितान् सु अत्यन्तं कृधि । कुरु । हे अग्ने विष्वक् सर्वतो विद्यमानान्येनांस्यस्माभिः कृतानि पापानि वि शिश्रथः । विश्लथय । शिथिली कुरु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२