मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १३, ऋक् ३

संहिता

यं सी॒मकृ॑ण्व॒न्तम॑से वि॒पृचे॑ ध्रु॒वक्षे॑मा॒ अन॑वस्यन्तो॒ अर्थ॑म् ।
तं सूर्यं॑ ह॒रितः॑ स॒प्त य॒ह्वीः स्पशं॒ विश्व॑स्य॒ जग॑तो वहन्ति ॥

पदपाठः

यम् । सी॒म् । अकृ॑ण्वन् । तम॑से । वि॒ऽपृचे॑ । ध्रु॒वऽक्षे॑माः । अन॑वऽस्यन्तः । अर्थ॑म् ।
तम् । सूर्य॑म् । ह॒रितः॑ । स॒प्त । य॒ह्वीः । स्पश॑म् । विश्व॑स्य । जग॑तः । व॒ह॒न्ति॒ ॥

सायणभाष्यम्

ध्रुवक्षेमाः स्थिरनिवासाः सृष्टिकर्तारो देवाः सीं सर्वतस्तमसे तमसो विपृचे पृथक्करणायार्थं जगल्लक्षनं कार्यमनवस्यन्तोऽविमुञ्चन्तः कुर्वन्त एव यं सूर्यमकृण्वन् । असृजन्नित्यर्थः । यह्वीर्महत्यः सप्त सप्तसंख्याका हरितोऽश्वा विश्वस्य समस्तस्य जगतः प्राणिसहूहस्य स्वशं प्रेरकत्वेन ज्ञातारं तं सूर्यं वहन्ति । धारयन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३