मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १४, ऋक् ३

संहिता

आ॒वह॑न्त्यरु॒णीर्ज्योति॒षागा॑न्म॒ही चि॒त्रा र॒श्मिभि॒श्चेकि॑ताना ।
प्र॒बो॒धय॑न्ती सुवि॒ताय॑ दे॒व्यु१॒॑षा ई॑यते सु॒युजा॒ रथे॑न ॥

पदपाठः

आ॒ऽवह॑न्ती । अ॒रु॒णीः । ज्योति॑षा । आ । अ॒गा॒त् । म॒ही । चि॒त्रा । र॒श्मिऽभिः॑ । चेकि॑ताना ।
प्र॒ऽबो॒धय॑न्ती । सु॒ऽवि॒ताय॑ । दे॒वी । उ॒षाः । ई॒य॒ते॒ । सु॒ऽयुजा॑ । रथे॑न ॥

सायणभाष्यम्

आवहन्ती धनानि धारयन्त्यरुणीररुणवर्नाः । प्रथमैकवचने द्वितीयाबहुवचनं छान्दसम् । ज्योतिषा तेजसा युक्ता मही महती रश्मिभिः किरणैश्चित्रा दर्शनीया चेकिताना जानत्युषा आगात् । आगच्छत् । किञ्च प्रबोधयन्ती सुप्तान् प्रबुद्धान् कुर्वती देवी द्योतमानोषाः सुयुजा शोभनयुक्तेन रथेन सुविताय सुखप्राप्तय ईयते । गच्छति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४