मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १४, ऋक् ५

संहिता

अना॑यतो॒ अनि॑बद्धः क॒थायं न्य॑ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न ।
कया॑ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक॑म् ॥

पदपाठः

अना॑यतः । अनि॑ऽबद्धः । क॒था । अ॒यम् । न्य॑ङ् । उ॒त्ता॒नः । अव॑ । प॒द्य॒ते॒ । न ।
कया॑ । या॒ति॒ । स्व॒धया॑ । कः । द॒द॒र्श॒ । दि॒वः । स्क॒म्भः । सम्ऽऋ॑तः । पा॒ति॒ । नाक॑म् ॥

सायणभाष्यम्

अयतशब्दो दूरवाची । तद्विपरितोऽनायत आसीनः सन्नयं प्रत्यक्षेणोपलभ्यमानो मण्डलाभिमानी सूर्यो निबद्धः । केनापि बद्धो न क्रियते । अपि चायम् सूर्यो न्यङ्गुर्वाङ्मुखः सन् केनचित्कथा कथं नाव पद्यते । न हिंस्यते । किञ्चायमुत्तान ऊर्ध्वमुखत्वेन तिष्ठन् कया स्वधया केन बलेन याति । गच्छति । स्वधाशब्धोऽन्नवाच्यत्र तत्कार्यं बलं लक्षयति । अपि च दिवो द्युलोकस्य स्कंभः स्तम्भः समृतो नाकेन समवेतः सूर्यो नाकं स्वर्गं पाति । पालयति । को ददर्श । तत्त्वतः कः पश्यति । न कोऽपि जानातीत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४