मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १५, ऋक् ५

संहिता

अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी॑शीत॒ मर्त्य॑ः ।
ति॒ग्मज॑म्भस्य मी॒ळ्हुषः॑ ॥

पदपाठः

अस्य॑ । घ॒ । वी॒रः । ईव॑तः । अ॒ग्नेः । ई॒शी॒त॒ । मर्त्यः॑ ।
ति॒ग्मऽज॑म्भस्य । मी॒ळ्हुषः॑ ॥

सायणभाष्यम्

वीरः स्तुतौ विक्रान्तो मर्त्यो मरण धर्माः यजमानस्तिग्मजम्भस्य तीक्ष्ण तेजसो मीळ्हुषोऽभिलषितफलानां सेक्तुरीवतो गमनवतोऽस्काग्नेरीशीत । ईश्वरो भवेत् । घेति पादपूरनः । एतेन यजमान आत्माभीष्टफल कारयितुं समर्थो भवतीत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५