बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा॑हदे॒व्यः ।
अच्छा॒ न हू॒त उद॑रम् ॥
बोध॑त् । यत् । मा॒ । हरि॑ऽभ्याम् । कु॒मा॒रः । सा॒ह॒ऽदे॒व्यः ।
अच्छ॑ । न । हू॒तः । उत् । अ॒र॒म् ॥
साहदेव्यः सहदेवनाम्नो राज्ञः पुत्रः कुमारः सोमकाभिधो राजा हरिभ्यामश्वाभ्यामश्वौ दातुं मा मां यद्यदा बोधत् । बोधयामासेमौ तावाश्वाविति । तदाहमच्छभिमुख्येन कुमारेण हूतः सन् नोदरम् । तावश्वालब्ध्वा न निर्गतवानस्मि ॥ ७ ॥