मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १६, ऋक् २

संहिता

अव॑ स्य शू॒राध्व॑नो॒ नान्ते॒ऽस्मिन्नो॑ अ॒द्य सव॑ने म॒न्दध्यै॑ ।
शंसा॑त्यु॒क्थमु॒शने॑व वे॒धाश्चि॑कि॒तुषे॑ असु॒र्या॑य॒ मन्म॑ ॥

पदपाठः

अव॑ । स्य॒ । शू॒र॒ । अध्व॑नः । न । अन्ते॑ । अ॒स्मिन् । नः॒ । अ॒द्य । सव॑ने । म॒न्दध्यै॑ ।
शंसा॑ति । उ॒क्थम् । उ॒शना॑ऽइव । वे॒धाः । चि॒कि॒तुषे॑ । अ॒सु॒र्या॑य । मन्म॑ ॥

सायणभाष्यम्

हे शूर शत्रूणामभिभवसमर्थेन्द्र अद्येदानीमस्मिन् सवने माध्यन्दिनाख्ये मन्दध्यै त्वां मादयितुं नोऽस्मानव स्य । विमुञ्च । तत्र दृष्टान्तः । अध्वनो गन्तव्यस्य मार्गस्यान्ते समीपे नाश्वान्मनुष्या यथा मुञ्चन्ति तद्वत् । उशनेव काव्य इव वेधाः शम्सिता यजमानो हे इन्द्र चिकितुषे सर्वं जानतेऽसुर्याया सुरानां हिंसकाय तुभ्यं मन्म मननीयमुक्थं शस्त्ररूपं स्तोत्रं शंसाति शंसनं करोति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७