मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १६, ऋक् ७

संहिता

अ॒पो वृ॒त्रं व॑व्रि॒वांसं॒ परा॑ह॒न्प्राव॑त्ते॒ वज्रं॑ पृथि॒वी सचे॑ताः ।
प्रार्णां॑सि समु॒द्रिया॑ण्यैनो॒ः पति॒र्भव॒ञ्छव॑सा शूर धृष्णो ॥

पदपाठः

अ॒पः । वृ॒त्रम् । व॒व्रि॒ऽवांस॑म् । परा॑ । अ॒ह॒न् । प्र । आ॒व॒त् । ते॒ । वज्र॑म् । पृ॒थि॒वी । सऽचे॑ताः ।
प्र । अर्णां॑सि । स॒मु॒द्रिया॑णि । ऐ॒नोः॒ । पतिः॑ । भव॑न् । शव॑सा । शू॒र॒ । धृ॒ष्णो॒ इति॑ ॥

सायणभाष्यम्

हे इन्द्र प्रावत् राक्षसादिभ्यः प्रकर्षेण पालयितृ ते त्वदीयं वज्रमपो वृष्टिलक्षणान्युदकानि वव्रिवांसमावरकं वृत्रं मेघं पराहन् । प्रकर्षेण प्रेरयति स्म । पृथिवी भूमिः सचेताश्चेतनावती । त्वया सङ्गता बभूव । धृष्णो धर्षणशील हे शूर विक्रान्तेन्द्र त्वं शवसा बलेन परित्भवन् लोकानां पालकः सन् समुद्रियाणि समुद्रसंबन्धीन्यर्नांसि नभसि स्थितान्युदकानि प्रैणोः प्रेरकोऽभूः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८