मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १६, ऋक् ८

संहिता

अ॒पो यदद्रिं॑ पुरुहूत॒ दर्द॑रा॒विर्भु॑वत्स॒रमा॑ पू॒र्व्यं ते॑ ।
स नो॑ ने॒ता वाज॒मा द॑र्षि॒ भूरिं॑ गो॒त्रा रु॒जन्नङ्गि॑रोभिर्गृणा॒नः ॥

पदपाठः

अ॒पः । यत् । अद्रि॑म् । पु॒रु॒ऽहू॒त॒ । दर्दः॑ । आ॒विः । भु॒व॒त् । स॒रमा॑ । पू॒र्व्यम् । ते॒ ।
सः । नः॒ । ने॒ता । वाज॑म् । आ । द॒र्षि॒ । भूरि॑म् । गो॒त्रा । रु॒जन् । अङ्गि॑रःऽभिः । गृ॒णा॒नः ॥

सायणभाष्यम्

हे पुरुहूत बहुभिराहुतेन्द्र यद्यदापः प्रति वृष्टिलक्शणान्युदकानि लक्षीकृत्याद्रिं मेघं दर्दः । विदारितवानसि । सरमा देवशुनी पूर्व्यं पुरा ते तुभ्यं पणिभिरपहृतं गोधनमाविर्भुवत् । प्रकाशयामस । अङ्गिरोभिरृषिभिर्गृणानः स्तूयमानः सन् गोत्रा गोत्राण्यभ्राणि रुजन् नोऽस्मान् भूरिं प्रभूतं वाजमन्नं नेता प्रापयिता स त्वमा दर्षि । आदरं कृतवानसि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८