मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १७, ऋक् ९

संहिता

अ॒यं वृत॑श्चातयते समी॒चीर्य आ॒जिषु॑ म॒घवा॑ शृ॒ण्व एकः॑ ।
अ॒यं वाजं॑ भरति॒ यं स॒नोत्य॒स्य प्रि॒यासः॑ स॒ख्ये स्या॑म ॥

पदपाठः

अ॒यम् । वृतः॑ । चा॒त॒य॒ते॒ । स॒म्ऽई॒चीः । यः । आ॒जिषु॑ । म॒घऽवा॑ । शृ॒ण्वे । एकः॑ ।
अ॒यम् । वाज॑म् । भ॒र॒ति॒ । यम् । स॒नोति॑ । अ॒स्य । प्रि॒यासः॑ । स॒ख्ये । स्या॒म॒ ॥

सायणभाष्यम्

मघवा धनवान्य इन्द्र आजिषु सङ्ग्रामेष्वेको मुख्य एव शृण्वे । श्रूयते । अयमिन्द्रः समीचीः सङ्गता वृतः । वृण्वन्त्याच्छादयन्ति लोकानिति व्रुतः शत्रुसेनाः । ताश्चातयते । नाशयति । अयमिन्द्रो यं वाजं यदन्नं सनोति । यजमानाय ददाति । तं वाजं भरति । यजमानस्य तदन्नं दातुं बिभर्ति । स्तोतारो वयमस्यैवंभूतस्येन्द्रस्य सख्ये सखत्वे प्रियासः प्रियाः स्याम । भवेम ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२