मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १७, ऋक् १४

संहिता

अ॒यं च॒क्रमि॑षण॒त्सूर्य॑स्य॒ न्येत॑शं रीरमत्ससृमा॒णम् ।
आ कृ॒ष्ण ईं॑ जुहुरा॒णो जि॑घर्ति त्व॒चो बु॒ध्ने रज॑सो अ॒स्य योनौ॑ ॥

पदपाठः

अ॒यम् । च॒क्रम् । इ॒ष॒ण॒त् । सूर्य॑स्य । नि । एत॑शम् । री॒र॒म॒त् । स॒सृ॒मा॒णम् ।
आ । कृ॒ष्णः । ई॒म् । जु॒हु॒रा॒णः । जि॒घ॒र्ति॒ । त्व॒चः । बु॒ध्ने । रज॑सः । अ॒स्य । योनौ॑ ॥

सायणभाष्यम्

प्रैतशं सूर्ये पस्पृधानमित्यर्धर्चे । ऋग्वे. १-६१-१५ । पूर्वं काचिदाख्यायिका सूचिता । अत्राप्ययं चक्रमिति पूर्वार्धे सा सूच्यते । स्वस्व्वनामाकश्चिद्राजा । स च पुत्रार्थं सूर्यमुषास्ते । स च सूर्यः पुत्ररूपेण स्वयमेव तत्रोत्पन्नः सन् एतशाख्येन महर्षिणा सार्धं युद्धं चकार । तदानीं स ऋषिर्युद्धे जयार्थमिन्द्रं तुष्टाव । स इन्द्रस्तेन स्तूयमानः सन् स्वश्वपुत्रस्य सूर्यस्य सम्बन्धिन सङ्ग्रामादेनमपालयदिति । अयमिन्द्रः सूर्यस्य चक्रमायुधमिशणत् । प्रैरयत् । ससृमाणं युद्धार्थं सरंतं गच्छन्तमेतशना मानमृषिं नि रीरमत् । न्यरीरमत् । निवारितवान् । जुहुराणः कुटिलं यथा भवति तथा सञ्चरन् कृष्णः कृष्णवर्णो मेघस्त्वचस्तेजसो बुध्ने मूलभूते रजसोऽस्योदकस्य योनौ स्थानेऽन्तरिक्षे स्थितमीमेनमिन्द्रमा जिघर्ति । आसिन्ञ्चति । शत्रूणां प्रेरिताच्चक्रादेस्त्रस्तं ररक्षेत्यर्थः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३