मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १८, ऋक् १

संहिता

अ॒यं पन्था॒ अनु॑वित्तः पुरा॒णो यतो॑ दे॒वा उ॒दजा॑यन्त॒ विश्वे॑ ।
अत॑श्चि॒दा ज॑निषीष्ट॒ प्रवृ॑द्धो॒ मा मा॒तर॑ममु॒या पत्त॑वे कः ॥

पदपाठः

अ॒यम् । पन्थाः॑ । अनु॑ऽवित्तः । पु॒रा॒णः । यतः॑ । दे॒वाः । उ॒त्ऽअजा॑यन्त । विश्वे॑ ।
अतः॑ । चि॒त् । आ । ज॒नि॒षी॒ष्ट॒ । प्रऽवृ॑द्धः । मा । मा॒तर॑म् । अ॒मु॒या । पत्त॑वे । क॒रिति॑ कः ॥

सायणभाष्यम्

अयं पन्था इति त्रयोदशर्चमष्टमं सूक्तं त्रैष्टुभम् । अत्रानुक्रमणिका । अयं पन्थाः सप्तोना संवाद इन्द्रादिति वामदेवानामिति । यस्य वाक्यं स ऋषिर्या तेनोच्यते सा देवतेति परिभाषितत्वाद्रुषिदेवते तत्र तत्र ज्ञातव्ये । अस्मिन् सूक्ते इन्द्रादितिवामदेवसंवादरूपिणी काचिदाख्यायिका श्लोकरूपेण सूच्यते । गर्भस्थो ज्ञानसम्पन्नो वामदेवो महामुनिः । मतिं चक्रे न जायेय योनिदेशात्तु मातृतः । किन्तु पार्श्वादितश्चेति ज्ञात्वा नु जननी त्विदम् । दध्यौ शान्त्यै शचीं देवीमदितिं त्विन्द्रमातरम् । अदितिस्त्विन्द्रसहिता बर्भिणी मभ्यगाद्वने । अदितीन्द्रवामदेवाः संवादमथ चक्रिरे । संवाद इति सूत्रेण कथा सैषात्र सूच्यते । नोक्तो वक्तृविशेषोऽत्र ह्युपदेशेष्वनुक्तितः । अर्थतस्ववगन्तव्यो वक्तृभेद इति स्थितिः । इन्द्रोऽदितिऋषिश्चास्मिन्मिथः सूक्ते समूचिरे । गर्भेशयानं सुचिरं मातुर्गर्भादनिर्गतम् । वामदेवं प्रति ब्रूत आद्ययर्चा शतक्रतुः । द्वितीयादिभिरर्धर्चैऋषिरत्राह पञ्चभिः । नही न्वस्येति सप्त स्युरर्धर्चा अदितेर्वचः । ममच्चन त्वा युवतिरित्युचः पञ्च वै मुनेः । दौर्गत्यशान्तिमत्राह वामदेवस्तथान्त्यया । एवमर्थाद्वक्तृभेद इति बह्वृचशासनम् । अर्थो विवेकस्पष्टत्वादुपदेशेषु नेरितः । ऋषिदैवतसिद्ध्यर्थं विवेकादर्थ ईरित इति ॥

इन्द्रवाक्यम् । पुराणोऽनादिरयं प्रत्यक्शेणोपलभ्यमानः पन्था योनिर्निगमनरूपो मार्गोऽनु आनुपूर्व्येण वित्तः । सर्वैर्जायमानैर्लब्धः । यतो यस्माद्योनिमार्गाद्विश्वे सर्वे देवा उदजायन्त । उत्कर्षेणोत्पन्ना भवन्ति । तस्माद्योनिमार्गान्मनुष्या उत्पन्ना भवन्तीति किमु वक्तव्यम् । अतश्चिदस्माद्योनिमार्गादेव प्रवृद्धो गर्भे प्रकर्षेण वृद्धिं गतो वामदेव आ जनिषीष्ट । आ समन्ताज्जायताम् । अमुयामूं मातरं पत्तवे पतनाय । मरणायेत्यर्थः । मा कः । मा करोतु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५