मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १८, ऋक् ५

संहिता

अ॒व॒द्यमि॑व॒ मन्य॑माना॒ गुहा॑क॒रिन्द्रं॑ मा॒ता वी॒र्ये॑णा॒ न्यृ॑ष्टम् ।
अथोद॑स्थात्स्व॒यमत्कं॒ वसा॑न॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ॥

पदपाठः

अ॒व॒द्यम्ऽइ॑व । मन्य॑माना । गुहा॑ । अ॒कः॒ । इन्द्र॑म् । मा॒ता । वी॒र्ये॑ण । निऽऋ॑ष्टम् ।
अथ॑ । उत् । अ॒स्था॒त् । स्व॒यम् । अत्क॑म् । वसा॑नः । आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । जाय॑मानः ॥

सायणभाष्यम्

गुहा गुहायां गह्वररूपे सूतिकागृहे जातमिन्द्रमवद्यमिव गर्हमिव मन्यमाना जानती मातेन्द्रजनन्यदितिर्वीर्येण सामर्थ्येन न्यृष्टं नितरां प्राप्तमकः । अकरोत् । अथानन्तरं जायमान उत्पद्यमान इन्द्रः स्वयमेवात्कं तेजो वसान आच्छादकः सन् । दधान इत्यर्थः । उदस्थात् । उत्कर्षेणातिष्ठत् । किञ्च रोदसी द्यावापृथिव्यापापृनात् । समन्तात्पूरयामास ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५