मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १८, ऋक् ७

संहिता

किमु॑ ष्विदस्मै नि॒विदो॑ भन॒न्तेन्द्र॑स्याव॒द्यं दि॑धिषन्त॒ आपः॑ ।
ममै॒तान्पु॒त्रो म॑ह॒ता व॒धेन॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिन्धू॑न् ॥

पदपाठः

किम् । ऊं॒ इति॑ । स्वि॒त् । अ॒स्मै॒ । नि॒ऽविदः॑ । भ॒न॒न्त॒ । इन्द्र॑स्य । अ॒व॒द्यम् । दि॒धि॒ष॒न्ते॒ । आपः॑ ।
मम॑ । ए॒तान् । पु॒त्रः । म॒ह॒ता । व॒धेन॑ । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒सृ॒ज॒त् । वि । सिन्धू॑न् ॥

सायणभाष्यम्

यदेन्द्रो वृत्रासुरं हतवान् तदा शाश्वतीं ब्रह्महत्यां प्राप्तवानिति वामदेवस्याभिप्रायमुन्नीयादितिराह । निविदः । मरुत्वतीयशस्त्रे प्रयुज्यमानानि मरुत्स्तोत्रोमरुद्गण इत्यादीनीन्द्रस्तुतिप्रतिपादकानि कानिचित्पदानि निविच्छब्देनोच्यन्ते । ता निविदोऽस्मा इदुं वृत्रवधनिमित्तं ब्रह्महत्यारूपं पापं प्राप्नुवन्तमिन्द्रं किमु ष्वित् भनन्त । भनन्ति । किं वदन्तीति चेत् । तर्हि । पापरहितमिन्द्रं मत्वा निविदः स्तुवन्ति । कथमिन्द्रस्य पापरहितत्वम् । उच्यते । आपः फेनरूपेणास्येन्द्रस्यावद्यं ब्रह्महत्यादिरूपं पापं दिधिषन्ते । धारयन्ति । मम पुत्रो मदीयः पुत्र इन्द्रो महता प्रभूतेन वधेन । वध इति वज्रनामैतत् । वज्रेण वृत्रं जघन्वान् । हतवान् । तत एतान् सिन्धूनुदकानिओ व्यसृजत् । विशेशेण स्वैरत्वेन सर्तुं सृष्टवान् । इन्द्रेणोत्सृष्टा अपस्तस्त्य पापं जगृहुरित्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६