मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १८, ऋक् १०

संहिता

गृ॒ष्टिः स॑सूव॒ स्थवि॑रं तवा॒गाम॑नाधृ॒ष्यं वृ॑ष॒भं तुम्र॒मिन्द्र॑म् ।
अरी॑ळ्हं व॒त्सं च॒रथा॑य मा॒ता स्व॒यं गा॒तुं त॒न्व॑ इ॒च्छमा॑नम् ॥

पदपाठः

गृ॒ष्टिः । सा॒सू॒व॒ । स्थवि॑रम् । त॒वा॒गाम् । अ॒ना॒धृ॒ष्यम् । वृ॒ष॒भम् । तुम्र॑म् । इन्द्र॑म् ।
अरी॑ळ्हम् । व॒त्सम् । च॒रथा॑य । मा॒ता । स्व॒यम् । गा॒तुम् । त॒न्वे॑ । इ॒च्छमा॑नम् ॥

सायणभाष्यम्

गृष्टिः काचिद्गौर्वत्सम् यथा ससूव । सुषुवे । तथा मातेन्द्रजनन्यदितिश्चरथाय स्वेच्छया सञ्चरणायेन्द्रं ससूव । सुषुवे । कीद्रुशमिन्द्रम् । स्थविरं वयसा प्रवृद्धं तवागां प्रवृद्धबलमनाधृष्यं शत्रुभिरनभिभाव्यं वृषभं सेचनसमर्थं तुम्रं प्रेरकमरीळ्हं शत्रुभिरनभिभूतं स्वयं गातुमन्यनिरपेक्षगमनं तन्वे स्वशरीरायेच्छमानमिच्छन्तम् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६