अव॑र्त्या॒ शुन॑ आ॒न्त्राणि॑ पेचे॒ न दे॒वेषु॑ विविदे मर्डि॒तार॑म् ।
अप॑श्यं जा॒यामम॑हीयमाना॒मधा॑ मे श्ये॒नो मध्वा ज॑भार ॥
अव॑र्त्या । शुनः॑ । आ॒न्त्राणि॑ । पे॒चे॒ । न । दे॒वेषु॑ । वि॒वि॒दे॒ । म॒र्डि॒तार॑म् ।
अप॑श्यम् । जा॒याम् । अम॑हीयमानाम् । अध॑ । मे॒ । श्ये॒नः । मधु॑ । आ । ज॒भा॒र॒ ॥
अनया वामदेवः स्वकीयं दारिद्र्यं सूचयन्निन्द्रस्योत्कर्षमह । वामदेवोऽहमवर्त्या जीवनोपायराहित्येन शुनः शुनकसम्बन्धीन्यान्त्राणि पुरीतन्ति पेचे । अपचं । देवेशु द्योतमानेशु वह्न्यादिष्य् मध्य इन्द्रादन्यं मर्डितारं सुखयितारं न विविदे । न लेभे । किञ्च जायां स्वकीयां भार्याममहीयमानामश्लाघनीयामपश्यं । अद्राक्षं । अध अथानन्तरं श्येनः श्येनवच्छीघ्रगामीन्द्रो मे मह्यं मधु मधुरोपेतमुदकमा जभार । आजहार ॥ १३ ॥