मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १९, ऋक् २

संहिता

अवा॑सृजन्त॒ जिव्र॑यो॒ न दे॒वा भुवः॑ स॒म्राळि॑न्द्र स॒त्ययो॑निः ।
अह॒न्नहिं॑ परि॒शया॑न॒मर्ण॒ः प्र व॑र्त॒नीर॑रदो वि॒श्वधे॑नाः ॥

पदपाठः

अव॑ । अ॒सृ॒ज॒न्त॒ । जिव्र॑यः । न । दे॒वाः । भुवः॑ । स॒म्ऽराट् । इ॒न्द्र॒ । स॒त्यऽयो॑निः ।
अह॑न् । अहि॑म् । प॒रि॒ऽशया॑नम् । अर्णः॑ । प्र । व॒र्त॒नीः । अ॒र॒दः॒ । वि॒श्वऽधे॑नाः ॥

सायणभाष्यम्

हे इन्द्र देवास्त्वां जिव्रयो न जीर्णाः प्रवृद्धाः पितरो यूनः पुत्रानिवावासृजन्त । असुरवधार्थं प्रैरयन् । ततो हे इन्द्र सत्ययोनिः सत्यनिवासस्त्वं सम्राट् सर्वेषाम् लोकानामधीश्वरो भुवः । अभवः । अर्ण उदकं लक्षीक्रुत्य परिशयानं परितः समन्ताच्छयनं कुर्वन्तमहिं वृत्रासुरमहन् । अवधीः । विश्वाधेना विश्वस्य प्रीणयित्रीर्वर्तनीः सर्वत्र प्रवर्तिका सदीः प्रारदः । प्रकर्षेण विलेखनं क्रुतवानसि । इन्द्रो वृत्रं हत्वा तेनावृतान्युदकानि प्रवाहरूपेण प्रवर्तयतीत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः