मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १९, ऋक् ३

संहिता

अतृ॑प्णुवन्तं॒ विय॑तमबु॒ध्यमबु॑ध्यमानं सुषुपा॒णमि॑न्द्र ।
स॒प्त प्रति॑ प्र॒वत॑ आ॒शया॑न॒महिं॒ वज्रे॑ण॒ वि रि॑णा अप॒र्वन् ॥

पदपाठः

अतृ॑प्णुवन्तम् । विऽय॑तम् । अ॒बु॒ध्यम् । अबु॑ध्यमानम् । सु॒सु॒पा॒णम् । इ॒न्द्र॒ ।
स॒प्त । प्रति॑ । प्र॒ऽवतः॑ । आ॒ऽशया॑नम् । अहि॑म् । वज्रे॑ण । वि । रि॒णाः॒ । अ॒प॒र्वन् ॥

सायणभाष्यम्

हे इन्द्र त्वमतृप्णुवन्तं भोगेष्वतृप्यन्तं वियतं शिथिलाङ्गमबुध्यं दुर्विज्ञानमबुध्यमानं किमप्यजानन्तं सुषुपाणं सुप्तं सप्त सर्पणस्वभावाः प्रवतोऽपः प्रत्याशयानमावृत्य तिष्थन्तमहिं वृत्रमपर्वन् अपर्वणि पौर्नमास्यांवज्रेण वि रिणाः । व्यरिणाः । विशेशेण हतवानसि । पौर्णमास्यां व्रुत्रवधस्त्वष्टा हतपुत्र इत्यनुवाके घ्नन्ति वा एनं पौर्णमास आमावास्यायां प्याययन्तीति तैत्तरीयेऽप्युक्तः । तै. सं. २-५-२-५ ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः