मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १९, ऋक् ४

संहिता

अक्षो॑दय॒च्छव॑सा॒ क्षाम॑ बु॒ध्नं वार्ण वात॒स्तवि॑षीभि॒रिन्द्र॑ः ।
दृ॒ळ्हान्यौ॑भ्नादु॒शमा॑न॒ ओजोऽवा॑भिनत्क॒कुभ॒ः पर्व॑तानाम् ॥

पदपाठः

अक्षो॑दयत् । शव॑सा । क्षाम॑ । बु॒ध्नम् । वाः । न । वातः॑ । तवि॑षीभिः । इन्द्रः॑ ।
दृ॒ळ्हानि॑ । औ॒भ्ना॒त् । उ॒शमा॑नः । ओजः॑ । अव॑ । अ॒भि॒न॒त् । क॒कुभः॑ । पर्व॑तानाम् ॥

सायणभाष्यम्

इन्द्रः परमैश्वर्ययुक्तः शवसा बलेन बुध्नमन्तरिक्षं क्षाम क्षीणोदकमक्शोदयत् । सम्पिपेष । तत्र दृष्टान्तः । वातो वायुस्तवीषीभिर्बलैर्वार्न उदकमिव तद्वत् । किञ्च ओतो बलमुशमानः कामयमान इन्द्रो दृळ्हानि दृढानि स्थिराण्यप्यभ्राण्यौभ्नात् । अभांक्षीत् । तथा पर्वतानां गिरीणां ककुभः पक्षानवाभिनत् । अत्यन्तमभैत्सीत् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः