मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १९, ऋक् ५

संहिता

अ॒भि प्र द॑द्रु॒र्जन॑यो॒ न गर्भं॒ रथा॑ इव॒ प्र य॑युः सा॒कमद्र॑यः ।
अत॑र्पयो वि॒सृत॑ उ॒ब्ज ऊ॒र्मीन्त्वं वृ॒ताँ अ॑रिणा इन्द्र॒ सिन्धू॑न् ॥

पदपाठः

अ॒भि । प्र । द॒द्रुः॒ । जन॑यः । न । गर्भ॑म् । रथाः॑ऽइव । प्र । य॒युः॒ । सा॒कम् । अद्र॑यः ।
अत॑र्पयः । वि॒ऽसृतः॑ । उ॒ब्जः । ऊ॒र्मीन् । त्वम् । वृ॒तान् । अ॒रि॒णाः॒ । इ॒न्द्र॒ । सिन्धू॑न् ॥

सायणभाष्यम्

हे इन्द्र त्वामद्रयो मरुतो जनयो जवन्यो गर्भं न पुत्रमिवाभिप्रदद्रुः । अभिजग्मुः । किञ्च रथा इव रंहणशीला रथा यथा तथा वृत्रवधार्थं त्वया साकं प्र ययुः । प्रकर्षेणायासिषुः । हे इन्द्र त्वं विसृतो विसरणशीला नदीरतर्पयः । अद्भिरपूरयः । तथोर्मीन्मेघानुब्जः । आवधीः । तथा त्वं वृतान्वृत्रेणावृतान् सिन्धूनपोऽरिणाः । प्रैरयः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः