मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २१, ऋक् १

संहिता

आ या॒त्विन्द्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूरः॑ ।
वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू॑ति॒ पुष्या॑त् ॥

पदपाठः

आ । या॒तु॒ । इन्द्रः॑ । अव॑से । उप॑ । नः॒ । इ॒ह । स्तु॒तः । स॒ध॒ऽमात् । अ॒स्तु॒ । शूरः॑ ।
व॒वृ॒धा॒नः । तवि॑षीः । यस्य॑ । पू॒र्वीः । द्यौः । न । क्ष॒त्रम् । अ॒भिऽभू॑ति । पुष्या॑त् ॥

सायणभाष्यम्

आ यात्विन्द्र इत्येकादशर्चमेकादशं सूक्तम् वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । आ यात्वित्यनुक्रान्तम् । पृष्थ्याभिप्लवशडहयोः प्रथमेऽहन्येतन्निविद्धानीयम् । सूत्रितं च । आ यात्विन्द्रोऽवस इति मरुत्वतीयम् । आ. ७-५ । इति ॥

स इन्द्रो नोऽस्माकमवसे रक्षणायोपा यातु । उपागच्छतु । य इन्द्र इहास्मिन्यज्ञे स्तुतः । शूरो विक्रान्तो ववृधानः प्रवृद्धोऽयमिन्द्रः सधमादस्तु । अस्माभिः सहमाद्यन् भवतु । यस्येन्द्रस्य तविषीस्तविष्यो बलानि पूर्वीः पूर्व्यो बहूनि । सन्तीति शेषः । यश्चेन्द्रो द्यौर्न द्योतमानः सूर्य इवाभिभूति परकीयं बलमभिभावुकं क्शत्रं स्वकीयं बलं तेजो वा पुष्यात् पुष्यतु । स इन्द्रो उपायात्विति पूर्वेण सम्बन्धः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः