मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २२, ऋक् ३

संहिता

यो दे॒वो दे॒वत॑मो॒ जाय॑मानो म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मै॑ः ।
दधा॑नो॒ वज्रं॑ बा॒ह्वोरु॒शन्तं॒ द्याममे॑न रेजय॒त्प्र भूम॑ ॥

पदपाठः

यः । दे॒वः । दे॒वऽत॑मः । जाय॑मानः । म॒हः । वाजे॑भिः । म॒हत्ऽभिः॑ । च॒ । शुष्मैः॑ ।
दधा॑नः । वज्र॑म् । बा॒ह्वोः । उ॒शन्त॑म् । द्याम् । अमे॑न । रे॒ज॒य॒त् । प्र । भूम॑ ॥

सायणभाष्यम्

देवो दीप्यमानो देवतमो दातृतमो जायमान उत्पद्यमानो य इन्द्रो महो महद्भिर्वाजेभिरन्नैर्महद्भिः शुष्मैर्बलैश्च । युक्तोऽभवदिति शेशः । स इन्द्रो बाह्वोर्हस्तयोरुशन्तं कामयमानं वज्रं दधानो धारयन् अमेन बलेन द्यां द्युलोकं च भूम भूलोकं च प्र रेजयत् । प्रकम्पयति स्म ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः