मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २२, ऋक् ९

संहिता

अ॒स्मे वर्षि॑ष्ठा कृणुहि॒ ज्येष्ठा॑ नृ॒म्णानि॑ स॒त्रा स॑हुरे॒ सहां॑सि ।
अ॒स्मभ्यं॑ वृ॒त्रा सु॒हना॑नि रन्धि ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्य ॥

पदपाठः

अ॒स्मे इति॑ । वर्षि॑ष्ठा । कृ॒णु॒हि॒ । ज्येष्ठा॑ । नृ॒म्णानि॑ । स॒त्रा । स॒हु॒रे॒ । सहां॑सि ।
अ॒स्मभ्य॑म् । वृ॒त्रा । सु॒ऽहना॑नि । र॒न्धि॒ । ज॒हि । वधः॑ । व॒नुषः॑ । मर्त्य॑स्य ॥

सायणभाष्यम्

हे सहुरे सहनशीलेन्द्र त्वं सत्रा सर्वदा सहांसि शत्रूनभिभावुकानि वर्षिष्ठा वर्षिष्थानि प्रवृद्धानि ज्येष्था ज्येष्थानि प्रशस्तानि नृम्णानि बलान्यस्मे अस्मभ्यं क्रुणुहि । कुरु । हे इन्द्र त्वमस्मभ्यम् सुहनानि शोभनवधानि व्रुत्रा व्रुत्राणि शत्रून् रन्धि । रन्धय । वशं नय । किञ्च वनुषो किंसकस्य मर्त्यस्य मरणधर्मणः शत्रोः संबन्धि वधो हननसाधनमायुधं जहि । नाशय ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः